|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.70. अध्यायः 070
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनाभिमन्युसुतस्य पदप्रवृत्तिनिमित्तकथनपूर्वकं नामकरणम्॥ 1 ॥ अत्रान्तरे युधिष्ठिरादीनां स्वर्णभारानयनेन हस्तिनपुरंप्रत्यागमनश्रवणेन कृष्णादिभिस्तत्प्रत्युद्यानम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम्।
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम्॥ 14-70-1(94422)
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत्।
अन्तरिक्षे च वागासीत्साधु केशव साध्विति॥ 14-70-2(94423)
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा।
ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर॥ 14-70-3(94424)
व्यचेष्टत च बालोसौ यथोत्साहं यताबलम्।
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः॥ 14-70-4(94425)
ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात्।
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम्॥ 14-70-5(94426)
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः।
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा।
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः॥ 14-70-6(94427)
तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम्॥ 14-70-7(94428)
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ।
`सभाजयत संहृष्टो महाराज महाजनः॥' 14-70-8(94429)
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्।
अभ्यवादयत प्रीता सह पुत्रेण भारत॥ 14-70-9(94430)
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः।
तथैव वृष्णिशार्दूलो नाम चास्याकरोत्प्रभुः।
पितुस्तव महाराज सत्यसन्धो जनार्दनः॥ 14-70-10(94431)
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः।
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा॥ 14-70-11(94432)
सोऽवर्धत यथाकालं पिता तव जनाधिप।
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत॥ 14-70-12(94433)
मासजातस्तु ते वीर पिता भवति भारत।
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः॥ 14-70-13(94434)
`मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च।
कृताकृतं महद्भीममादाय पुरुषोत्तमाः॥ 14-70-14(94435)
भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि।
निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनः॥ 14-70-15(94436)
नासीत्तत्र नृपः कश्चिदभारार्तो नृपं विना।
भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः॥' 14-70-16(94437)
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः।
अलञ्चक्रुश्च माल्यौघैर्नगरं नागसाह्वयम्॥ 14-70-17(94438)
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि।
वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वरः॥ 14-70-18(94439)
देवतायतनानां च पूजाः सुविविधास्तथा।
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया॥ 14-70-19(94440)
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः।
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्॥ 14-70-20(94441)
नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः।
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा॥ 14-70-21(94442)
बन्दिभिश्च नरै राजन्स्त्रीसहायैश्च सर्वशः।
तत्रतत्र विविक्तेषु समन्तादुपशोभितम्॥ 14-70-22(94443)
पताका धूयमानाश्च समन्तान्मातरिश्वना।
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान्॥ 14-70-23(94444)
अघोषयंस्तदा चाप पुरुषा राजमार्गतः।
सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः॥ ॥ 14-70-24(94445)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ततितमोऽध्यायः॥ 70 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-70-5 वाचयामासुः स्वस्तीति शेषः॥ 7-70-7 ग्रम्थिकाः दैवज्ञाः सुखावहं सौख्यं शयनं इति पृच्छन्ति ते सौख्यशायिकाः॥ 7-70-8 कुरुवंशस्य स्तवं आचक्षते ताभिः कुरुवंशस्तवाख्याभिः॥ 7-70-9 उत्थाय तु यथाकाममिति क.ट.थ.पाठः॥ 7-70-10 तस्य कृष्णो ददौ हृष्टो बहुरत्नं विशेषतः। तथान्ये वृष्णिशार्दूला इति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|